________________ दूताङ्गदम् / 11 रावणः-(सकोपं चन्द्रहासमादाय / ) रे अपसरापसर मेऽग्रतः, न पुनः कथाशेष करिष्यामि / अङ्गदः-(गन्तुमिच्छन् / ) रे नक्तंचरराज मुञ्च सहसा देवीमिमां मैथिली मिथ्या किं निजपौरुषस्य नटनप्रागल्भ्यमभ्यस्यसि / एतां पश्यसि किं न किंनरगणैरुद्गीतदोर्विक्रमां सेनां वानरभर्तुरुद्भटभुजस्तम्भाग्रभीमां पुरः // 37 // अपि च / शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनः . प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट / हितं तु त्वां बूमो मम जनकदोर्दण्डविजये ____ चलत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् // 38 // किं च / आदौ येन सुबाहुमुख्यपिशिताहारैः समं ताडका नीता नाशमतश्च भग्नवदनश्रीस्ते स्वसाकारि च / हत्वा येन वने भवद्भटवटून्बद्धोऽम्बुधिश्च क्षणा त्कर्ता त्वन्निधनस्य सैष समरे भ्रान्तिस्तवाद्यापि का // 39 // अपि च / रे रे राक्षस मा स्म शंकरवरभ्रान्त्या विभाङ्कीर्तयं रुष्टो मूढ तदैव यन्मतिरभूत्सीतापहारे हरः। नो चेदिष्टकपालमण्डनभृताप्याखण्ड्य मुण्डावली भक्त्या ढौकितमीश्वरेण किमहो प्रत्यर्पितं प्राभृतम् // 40 // अपि च / जानीमहे महेश्वरपरिचरणप्रसङ्गपरमार्थमपि भवतः / मिथ्याभिमानिन्, आः पौलस्त्य किमेवमुत्पुलकितः स्वस्मै मुहुः श्लाघसे यत्तोषं गमितः स्वमौलिकमलैर्बालेन्दुमौलिमया / 1. 'तव किम्' इति पाठः.