________________ काव्यमाला / . रावण:-भो वलीमुख, किमपि वक्तुकामः / अगद: न दोषः स्वल्पोऽपि प्रभवति तवाकृत्यकरणा__ दपि क्रव्यादानां भवति परमं मण्डनमिव / अतः क्रव्यादेश त्वयि न परदारापहरणा__ दनौचित्यं किंचित्तदपि विषमाः क्षत्रियरुषः // 32 // रावणः-(सक्रोधम् / ) आः पाप दुर्मुख, मौखर्यदर्शनेन राघवमर्पयसि न पुनर्निदर्शनेन / अगदः-किमपरमुदाहरणं विलोकय / ___ समं प्रतिज्ञया येन तीर्खा दुस्तरमर्णवम् / वनद्रुमाः सुवेलस्य भज्यन्ते त्वद्भुजा इव // 33 // रावण:-अरे विचारमूढ, पारावतैः किमयमम्बुनिधिर्न तीर्णः क्रान्ताः कथं न कपिभिः क च नाम शैलाः / तद्वेद्मि दोर्बलमसौ यदि शौर्यरेखा माविष्करोति करवालकषोपलेऽद्य // 34 // अपि च रे, रावणं न जानासि / आस्कन्धावधि कण्ठपीठविपिने प्राक्चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरासंततौ / अस्मेरं गलिताश्रु गद्गदपदं भुग्नं च यद्येष्वभू द्वक्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः // 35 // अगद: किं राघवस्य दशकंधरचन्द्रहास वंशेऽभवन्भुवनभीतिभिदः शरास्ते / लूनानि यैस्तव शिरांसि पुनः प्ररोह. . मेष्यन्ति मूढ नहि धूर्जटिपर्वणीव // 36 //