________________ . 14 काव्यमाला। वपुर्मुख्यं वित्तं व्ययितमिह धर्मार्थमवनौ ___ खलु स्फारीभूतं वलति विपरीतं नहि पुनः / बलिं कुर्वशंभोः पलभुजपतिः सत्रिभुवनां शिरःश्रेणी लेभे ननु विगमयन्नुत्पलकृते // 50 // (नेपथ्ये / ) बाणैर्लाञ्छितकेतुयष्टिशिखरो मूर्छानमत्सारथि___ मांसास्वादनलुब्धगृध्रविहगश्रेणीभिरासेवितः / रक्षोनाथकबन्धगाढपतनक्षुण्णाक्षदण्डो हयैहेषित्वा स्मृतमन्दुरास्थितिहृतैर्लङ्का रथो नीयते // 11 // (पुनर्नेपथ्ये / ) सर्वा गीर्वाणवध्वो व्रजत निजगृहान्बद्धमाधोरण द्रा स्वर्गेभस्तम्भमालामय सुरकरिणं यामिका यात देवाः / भूयो दिव्यद्रुमाणां भवतु ननु वने नन्दने संनिवेशो द्वारि क्षिप्तं यदैन्द्रे दशवदनशिरः किंकरैरङ्कितस्य(?) // 12 // ... अपि च / रणरसिकसुरस्त्रीमुक्तमन्दारदामा स्वयमयमवतीर्णो लक्ष्मणन्यस्तहस्तः / विरचितजयशब्दो बन्दिभिः स्यन्दनाङ्का दिनकरकुललक्ष्मीवल्लभो रामभद्रः // 13 // रामः-(पुष्पकाधिरूढोऽयोध्यामागच्छन्सीतां प्रति लङ्कारणभूमिं दर्शयन् / ) अत्रासीत्कणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः / दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं लम्भितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी // 54 // इति नवरसगीर्भिर्जानकी प्रीणयन्वः पुलकिाललिताङ्गः पैतृकं प्राप्य धाम /