________________ काव्यमाला / . रावणः-(सकोपहासम् / ) देवि, एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयीकमिदं विमृश्य यदसौ तस्मै तदा नार्पिता। तार्तीयीकमिदं तु यत्कपिभटैर्बद्धेऽद्य वारां निधौ संधानं दशकंधरो रचयति मानन्दिनीमर्पयन् // 18 // तदवतंसयतु भवती विलासगृहम् / (इति मन्दोदरी बाष्पं विसृजन्ती निष्क्रान्ता / ) रावणः-(विभीषणं प्रति / ) वत्स विभीषण, तवापि किमपि वक्तव्यमस्ति / विभीषणः-देव लङ्केश्वर, विचारय नयचक्षुषा / ___ मनुष्यौ न मनुष्यौ तौ वानरास्ते न वानराः / . व्याजेन किमपि च्छन्नं देव दुर्दैवमेव ते // 19 // तदियं मुच्यतां राक्षसकुलकालरात्रि नकी / रावणः-(सरोष खड्गमादाय / ) आः पाप प्रतिपक्षपक्षपातिन् कुलाङ्गार दुराचार, एष ते चन्द्रहासेन शिरः पातयामि / (इति संरभते / ) (विभीषणश्च सभयमपसरति / ) माल्यवान्-(अन्तराले भवन् / ) देव लङ्केश्वर, विचारय नयचक्षुषा किमहितमभिहितं कुमारविभीषणेन / रावणः-भोः, त्वमपीदृशः संपन्नः / / (माल्यवान्सभयं तूष्णीमास्ते / ) रावणः-(विभीषणं प्रति / ) अरे बान्धवापसद, परिहर मे राजधानीम् / तमेव च वनेचरमनुप्रविश्य प्रकाशय नीतिनैपुण्यम् / न पुनः कथाशेषं करिष्यामि / विभीषणः-न भाव्यमन्यथा भवति / (इति वदनिष्क्रान्तः / ) (ततः प्रविशति प्रहस्ताभिधः प्रतीहारः / ) प्रहस्तः-देव, रामस्य दूतोऽहमिति ब्रुवाणः कोऽपि शाखामृगो द्वारमध्यास्ते / रावणः-(सावज्ञम् / ) प्रवेशय तावत् / 1. 'बान्धवाभास' इति पाठः,