________________ दूताङ्गदम् / सेतोर्बन्धमिमं शृणोमि कपिभिः पश्यामि लङ्कां वृतां / * जीवद्भिस्तु न दृश्यते किमथवा किं वा नहि श्रूयते // 12 // अपि च / जम्भारातीभकुम्भस्थलदलनपटुश्चन्द्रहासाभिधानः खड्गः किं तापसस्य श्रवणविषयतां न प्रयातो मदीयः / यन्नासौ मेघनादप्रभृतिभटशतैया॑वृतां वेत्ति लङ्कां तन्नूनं सत्यमेतत्प्रचलति हि मतिः प्राप्तकालस्य जन्तोः॥१३॥ यदाखण्डलदपेन्दुराहवो बाहवो मम / द्रुह्यन्ति तापसेभ्योऽपि तदरिष्टमहो महत् // 14 // मन्दोदरी-(स्वगतम् / ) तं जेव्व अज नि गले गरलं गव्वस्स वरिसए एस / .. जग्गन्ति जेण रक्कसकुलम्मि सोअंकुरकुडप्पा // 15 // (प्रकाशम् / ) णाह, पेक्ख पेक्ख / अचरिअं अच्चरिअं। विलसिदसरोसवानरवरूहणीकलअलस्स कल्लोला / इह तुह विलासवासम्मि वीर विरअन्ति पडिसई // 16 ॥(क) रावणः-(सावज्ञम् / ) देवि प्रकृतिप्रियवादिनि, अलमलमनया मैटकीटकोलाहलविभीषिकया / किमप्यपरं वक्तुकामासि / मन्दोदरी अन्ज वि ण कोवि दोसो रहुपहुणो देव देहि वैदेहीं / मंदोदरीअ मंडणमखंडभावं समब्भेदु // 17 // (ख) (क) तमेवाद्यापि गले गरलं गर्वस्य वर्षयेषः / - ' जाग्रति येन राक्षसकुले शोकाङ्कुरकुङ्मला: // नाथ, प्रेक्षस्व प्रेक्षस्व / आश्चर्यमाश्चर्यम् / विलसन्सरोषवानरवरूथिनीकलकलस्य कल्लोलाः / इह तव विलासवासे वीर विरचयन्ति प्रतिशब्दम् / / (ख) अद्यापि न कोऽपि दोषो रघुप्रभोर्देव देहि वैदेहीम् / मन्दोदर्या मण्डनमखण्डभावं समभ्येतु / / 1. प्रकृति' इति पुस्तकान्तरे नास्ति. 2. 'कटककोलाहलबिभीषया' इति पाठः.