SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ काव्यमाला / आकल्पं कुलपर्वतैरविरलैबध्नामि वा सागरं देवादेशय किं करोमि सकलं दोर्दण्डसाध्यं मम // 8 // रामः-वत्स, अज्ञानादथवाधिपत्यरभसादस्मत्परोक्षे हृता ___ सीतेयं प्रविमुच्यतामिति वचो गत्वा दशास्यं वद / / नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित___ च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैवतो यास्यसि // 9 // अङ्गदः-देव, संधौ वा विग्रहे वापि मयि दूते दशाननी / अक्षता वा क्षता वापि क्षितिपीठे लुठिष्यति // 10 // रामः-साधु भो वालिनन्दन, साधु / (इति पृष्ठे हस्तं दत्त्वा विसृजति / ) ___ (अङ्गदः प्रणम्य निष्क्रान्तः / ) सुग्रीवः-(लङ्काशैलशिखरमालोक्य / ) देव, पश्य पश्य / सावज्ञमिव संपश्यन्कपिवीरवरूथिनीम् / निजांसे दशकण्ठोऽयं दत्ते मत्तेभवदृशम् // 11 // तदागच्छत / वयमपि सुवेलशैलवनतिलकितानि जलनिधेस्तटानि पश्यामः / ___ (इति निष्क्रान्ताः / ) (ततः प्रविशति रावणो मन्दोदरी विभीषणादिकश्च परिवारः / ) रावणः-(विभीषणं प्रति / ) वत्स विभीषण, एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः ..... सोऽहं सर्वजगत्पराभवकरो लङ्केश्वरो रावणः / . 1. 'रामः प्राइ' इति पाठः. 2. अयं श्लोकः क्षेमेन्द्रेण सुवृत्ततिलके भवभतिनाम्नोदाहृतः, तत्र च द्वितीयचरणे 'सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधना' इति पाठो. ऽस्ति. 3. 'साधु अङ्गद, साधु वालिनन्दन' इति पाठः. 4. 'विसर्जयति' इति पाठः. 5. 'एते ते' इत्यादि श्लोकद्वयं पुस्तकान्तरे नास्ति..
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy