________________ दूताङ्गदम् / तीर्णोऽर्णवः कवलितेव कपीश्वरस्य ___ सेनाभटैझटिति राक्षसराजधानी / यत्पौरुषोचितमिहाद्य कृतं मयात दैवस्य वश्यमपरं धनुषोऽथवास्य // 4 // लक्ष्मणः-आर्य, कातरजनमनोवलम्बिना दैवेन किम् / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी र्दैवं हि दैवमिति कापुरुषा वदन्ति / दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः // 5 // अपि च / यावल्ललाटशिखरं भ्रुकुटिर्न याति ___ यावन्न कार्मुकशिखामधिरोहति ज्या / तावन्निशाचरपतेः पटिमानमेतु त्रैलोक्यमूलविभुजेषु भुजेषु दर्पः // 6 // तदादिश्यतामङ्गदाय दौत्यम् / .. रामः-(अगदं सबहुमानमालोक्य / ) वत्स, पिता ते यद्वाली बलिनि दशकण्ठे कलितवा ने तद्वक्तुं शक्ता वयमयमुदास्ते न पुलकः / स एव त्वं व्यावर्तयसि तनुजत्वेन पितृतां . ततः किं वक्तव्यं तिलकय निसृष्टार्थपदवीम् // 7 // अगदः—(मौलिमण्डलमिलत्करयुगलेन प्रणम्य विज्ञापयति / ) देव, कि प्राकारविहारतोरणवती लङ्कामिहैवानये किं वा सैन्यमहं द्रुतं रघुपतेस्तत्रैव संपादये / 1. सुग्रीवस्येत्यर्थः. 2. 'इहाङ्कुरितं मयाद्य' इति पाठः. 3. अयं श्लोकः पुस्तकान्तरे मास्ति. प्रसिद्धश्च हितोपदेशादिषु. 4. 'आलोक्य समादिशति / ) महावीर अङ्गद' इति पाठः. 5. 'न शक्तास्तद्वक्तुम्' इति पाठः. 6. 'एष' इति पाठः. 7. निसृष्टार्थो दृतविशेष इत्यर्थः. 8. अस्माच्छोकादारभ्याग्रिमाङ्गदोक्तिपर्यन्तं पुस्तकान्तरे नास्ति.