________________ काव्यमाला। (प्रविश्य) नटी-अजउत्त, इअलि / आणवेदु अज्जो जं करणिज्जं / (क) सूत्रधारः-विश्वविश्वंभराभारसमुद्धरणादिवराहस्य निजभुजयुगलवि. दलितसकलवैरिवृन्दसुन्दरीनेत्रनीलोत्पलविगलितबहलबाष्पपूरप्लवमानप्रतापराजहंसस्य महाराजाधिराजश्रीमत्रिभुवनपालदेवस्य परिषदाज्ञया प्रबन्धविशेषमहमुपक्रममाणोऽस्मि / भो भोः सामाजिकाः, शृणुत सावधानाः यदद्य वसन्तोत्सवे देवश्रीकुमारपालदेवस्य यात्रायां पैदवाक्यप्रमाणपारंगतेन महाकविना श्रीसुभटेन विनिर्मितं तूताङ्गदं नाम च्छायानाटकमभिनेतव्यम् / नटी-अजउत्त, जुत्तं ववसिदं / (ख) . . (नेपथ्ये) तारापतौ वानरराजलक्ष्मी निहत्य यो वालिनमानिनाय / तीर्णार्णवो दाशरथिः स देवः सुवेलशैलोपवनेष्वखेलेत् // 3 // सूत्रधारः–आर्ये, प्रारब्धमेव कुशीलवैः / यदमी रामानुचरवीराणां परस्परमालापाः श्रूयन्ते / तदेहि / आवामप्यनन्तरकरणीयाय सज्जीभवावः / (इति निष्क्रान्तौ / ) प्रस्तावना।। (ततः प्रविशतः सुवेलशैलशिलातलासीनौ रामलक्ष्मणौ / सुग्रीवादिकश्च विभवतः परिवारः / ) रोमः-(लक्ष्मणं प्रति / ) वत्स लक्ष्मण, (क) आर्यपुत्र, इयमस्मि / आज्ञापयत्वार्यो यत्करणीयम् / (ख) आर्यपुत्र, युक्तं व्यवसितम् / 1. 'युगलागलाविदलित' इति पाठः. 2. 'देव' इति पदं पुस्तकान्तरे नास्ति. 3. 'पदवाक्यपारंगमेन' इति पाठः. 4. सुग्रीवे. 5. 'खेलेत्' इति पाठः. 6. 'नर्तकैः' इति पाठः. 7. 'इहैव रामानुचराणां परस्परालापाः' इति पाठः. 8. 'सुग्रीवादिपरिवारश्च' इति पाठः, 9. 'रामः-(लक्ष्मणमवलोक्य / ) तीर्णोऽर्णवः-' इति पाठः. .