________________ काव्यमाला। महाकविश्रीसुभटकृतं दूताङ्गदम् / / पायात्स वः कुमुदकुन्दमृणालगौरः शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः / नादेन यस्य सुरशत्रुविलासिनीनां काभ्यो भवन्ति शिथिला जघनस्थलीषु // 1 // अपि च / शंभोः कोदण्डभङ्गादविदितविभवः शक्रसूनोविनाशा... दज्ञातः सेतुबन्धादपि न परिचितः कैकसीनन्दनेन / संवादादङ्गदस्याप्यनधिगतगतिः कारणान्मर्त्यमूर्तेभूयाद्भूत्यै जनानां जगति रघुपतेर्वैष्णवः कोऽपि भावः॥२॥ (नान्द्यन्ते) मुत्रधारः-(परिक्रम्य नेपथ्याभिमुखमवलोक्य / ) प्रिये विलासवति, इतस्तावत् / 1. अयं सुभटकविरत्र कुमारपालदेवं वर्णयति. स च कुमारपाल: 1088 मितात्निस्तसंवत्सरादारभ्य 1172 मितसंवत्सरपर्यन्तं गुर्जर गुजरात देशं पालयामास. श्वेताम्बरजैनोऽनेकग्रन्थकर्ता पण्डितवरः श्रीहेमाचार्योऽपि कुमारपालसमकालीन एव. (मुम्बईमुद्रितसुभाषितावलीपुस्तकोपोद्वातस्य 139 पृष्ठं विलोकनीयम्.) हेमाचार्यकृतं कुमार. पालचरितं प्राकृतनिबद्धं प्रसिद्धमेव. 'सुभटेन पदन्यासः स कोऽपि समितौ कृतः / येनाधुनापि धीराणां रोमाञ्चो नापचीयते // ' इति कीर्तिकौमुद्यां (1 / 24) ख्रिस्तसंवत्सरत्रयोदशशतकपूर्वभागसमुत्पन्नः सोमेश्वरदेवोऽपि सुभटकविं स्तौति. अस्मिन्ग्रन्थे न सर्वे श्लोकाः सुभटकृताः, किं तु भवभूतिराजशेखरादिकृता अपि श्लोका अत्र वर्तन्ते. परकीयश्लोकग्रहणं च कविरेव स्वयं ग्रन्थान्ते स्वीकरोति. 'पायात्स व:-' इत्यादि प्रथमश्लोकस्योत्तरार्ध काव्यालंकारटीकायां (2 / 8) नमिसाधुनोदाहृतः. 2. वालिनः. 3. कैकसी रावणादीनां माता. 'नैकषी' इति पुस्तकान्तरपाठः.