________________ दूताङ्गदम् / (ततः प्रविशति प्रहस्तेन सहाङ्गदः / ) अगद:-(रावणमवलोक्य स्वगतम् / ) स एष जगदास्कन्दकौतुकी दशकंधरः / - यन्मौलिकमलारामे रामः क्षेप्ता शिलीमुखान् // 20 // (प्रकाशम् / ) रे राक्षसाः कथयत व स रावणाख्यो ___ रत्नं रवीन्दुकुलयोरपहृत्य नष्टः / त्रैलोक्यदीपनकरास्त्रशिखाकराले यो रामनामदहने भविता पतङ्गः // 21 // (बहवो राक्षसा रावणरूपं विभ्रति / ) अगदःरे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः प्रागेकं किल कार्तवीर्यनृपतेदोर्दण्डपिण्डीकृतम् / एकं नर्तनदापितान्नकवलं दैत्येन्द्रदासीजनै रेकं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा // 22 // रावणः--(बहुरूपाणि संहृत्य सहेलम् / ) भो भोः शाखामृग, कस्त्वं कस्यासि दूतः / पितर्युपरते यस्तु नोद्वहेत्पैतृकी धुराम् / तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः // 23 // रथापि भवतु / रक्षोदुर्भिक्षमाधातुमवतीर्णोऽस्ति यः सितौ / तस्य रामस्य दूतोऽहं सुतस्तस्य च बालिनः // 24 // भपि च / तस्य रामस्य दूतोऽहं येन मे जनको हतः / बालिनस्तस्य पुत्रोऽहं यद्वीर्यानुभवस्तव // 25 // 1. 'सदने' इति पाठः,