________________ 4 अङ्कः] . कर्णसुन्दरी / राजा-ततः / वीरसेनःकबन्धस्कन्धेषु स्रवदतिघनस्त्यानरुधिर स्थिरारम्भं गुह्यावनिधरशिरः श्रेणिमभितः / पुरो दृष्ट्वा दृष्ट्वा सुरयुवतयः किंनरकुल क्षयाशङ्कातङ्काक्षुभितमनसः क्षिप्रमभवन् // 20 // अपि च / गायन्तीषु सुराङ्गनासु मधुरं सौगन्ध्यवत्तन्मुख___ श्वासोल्लासिनि षट्पदावलिरवे वेणुध्वनिस्पर्धिनि / धीरं वैरिकबन्धताण्डवविधौ सङ्ग्रामरङ्गे लस . सेनानां गजगजितेन मुरजध्वानानुकारो धृतः // 21 // राजा-ततश्च / वीरसेनः-तत्कृतं कर्म रुच्चिकेन येन विस्मिताः सुराः / राजा-ततश्च / . . वीरसेनःत्रातारं जगतां विलोलवलयश्रेणीकृतैकारवं सोन्मादामरसुन्दरीभुजलतासंसक्तकण्ठग्रहम् / कृत्वा गर्जनकाधिराजमधुना त्वं भूरिरत्नाङ्कुरच्छायाविच्छुरिताम्बुराशिरशनादानः पृथिव्या पतिः // 22 // (सर्वे मोदन्ते / विदूषको नृत्यति / ) अमात्यः-किं ते भूयः प्रियमुपकरोमि / राजा दृष्टं देव्या किमपि भुवनाश्चर्यतत्त्वं महत्त्वं * लब्धा लक्ष्मीरिव मनसिजक्ष्माभुवः पक्ष्मलाक्षी / एकच्छत्रं समजनि महीमण्डलं तत्प्रियं मे किं स्यादस्मात्परमपि वरं यत्तु याचे भवत्तः // 23 // 1. 'वरश्रेणि' इत्यादर्शपाठः.