________________ काव्यमाला। . . अमासः-अविलम्बितं प्रवेशय / (प्रतीहारी निष्क्रम्य वीरसिंहेन सह प्रविशति / ) वीरसिंहः-जयति देवः साम्राज्येन / अमासः-आसनम् / (प्रतीहारी आसनं दत्त्वा निष्क्रान्ता / ) राजा-वीरसिंह, निवेदय वृत्तान्तम् / वीरसिंहः-यथा तावदितो निर्गत्य गर्जनाधिपतिबलस्यास्मद्वलं सिन्धो रोधसि मिलितम्, तथा देवाय निवेदितमेव / अनन्तरं महति समरसंमर्दे पांसूनां सूचिभेद्यैः सकलमपि कुलक्ष्माभृतां छादनेच्छा बद्घोत्साहैः प्रवाहैरसुषिरमभवद्वयोमसीमान्तरालम् / द्वारश्रेणीनिवेशश्रियमथ धरणीमण्डलं वीर्ययाता जातोर्वी तेऽनुवीर(:) विरचितविवरास्तत्र चाहो मुहूर्तम् // 17 // ततश्च / किं दोर्वीर्येण मौर्वी विरचय धनुषि त्वामहं न प्रहर्ता निःशङ्कस्त्वं रथस्थः प्रहर ननु यतः प्राक्प्रहारप्रियोऽहम् / वीराणामित्युदाराः सुचिरमुदचरन्नाककान्तानिकायैः स्निह्यत्कर्णा विमानप्रणिहितवदनै वितास्तत्र वाचः // 18 // राजा-ततः। वीरसेनः-क्रमेण नीरन्ध्र रुन्धते स्म त्रुटितमिव तडिज्ज्योतिषा व्योमरन्धं शस्त्राणि त्रासताम्यदिनकरतुरगश्रेणिदूरेक्षितानि / तीक्ष्णासिच्छिन्नमुह्यद्भटवरवरणारम्भसंभारभाजां येन स्वःस्वैरिणीनामवतरणविधावप्यभून्नावकाशः // 19 // (देवी स्मयते / ) विदूषकः-उकम्पिदोन्हि / (क) (क) उत्कम्पितोऽस्मि /