________________ 4 अङ्कः] . कर्णसुन्दरी / देवी-(उत्थाय / ) जेदु जेदु अजउत्तो / (क) . (सर्वे यथोचितमुपविशन्ति / ) देवी-(अञ्जलिं बद्धा / ) जं मए किं पि विरुद्धं आअरिदं तस्स दण्डं कण्णसुन्दरी समप्पमि / (ख) राजा-महानुभावप्रकृतिरसि / यदभिरुचितं तदाचर / (प्रविश्य / ) प्रतीहारी–अमञ्चो दुआरे चिट्ठदि / (ग) राजा-तूर्ण प्रवेशय / (इति प्रतीहारी निष्क्रान्ता / ) (ततः प्रविशत्यमात्यः प्रतीहारी च / ) प्रतीहारी–इदो इदो अमच्चो / (घ) (इति परिक्रामतः / ) प्रतीहारी–एसो भट्ठा / उपसप्पदु अमच्चो / (ङ) (अमात्यो यथोचितमुपसर्पति / ) राजा-आसनमासनम् / (प्रतीहारी आसनं दत्त्वा. निष्क्रान्ता / ) देवी-सहि, आणेसु कण्णसुन्दरं जेण अमच्चस्स पुरदो समप्पिअ . निरवराहा होमि / (च) चेटी—णववहुत्ति जेव्व जवणिअन्तरे धरिदा सा / (इति निष्क्रम्य तो गृहीत्वा प्रविश्य च / ) देवि, पडिच्छसु एणम् / (छ) (क) जयतु जयत्वार्यपुत्रः। (ख) यन्मयां किमपि विरुद्धमाचरितं तस्य दण्डं कर्णसुन्दरीं समर्पयामि / (ग) अमात्यो द्वारे तिष्ठति / (घ) इत इतोऽमात्यः / (ङ) एष भर्ता / उपसर्पत्वमात्यः / (च) सखि, आनय कर्णसुन्दरी येनामात्यस्य पुरतः समर्प्य निरपराधा भवामि / (छ) नववधूरियेव जवनिकान्तरे धृता सा / देवि, प्रतीच्छैनाम् /