________________ . 52 काव्यमाला। ... देवी-(सलजां नायिकामन्तिके निवेश्य स्वगतम् / ) अञ्चरिअम् / पञ्चक्ख सेव्व एसा / अहो माहप्पं कवडनाडअस्स। (क) राजामाञ्जिष्ठी लिपिरोष्ठयोः कवचितं चन्द्रस्य कान्त्या मुखं भ्रूयुग्मं मकरध्वजस्य धनुषा सर्वाङ्गमालिङ्गितम् / लावण्यं कुचयोः सुवर्णकलशीमानेन नूनं कृतं नो जाने कियती पपौ कुवलयच्छायां कटाक्षच्छविः // 13 // (विहस्य / ) देवी निसर्गतरला तरलायताक्षी ___ संवादमिच्छति मदीक्षणवञ्चनाय / प्रत्यन्तरेक्षणमपि क्षणमेतदीय सादृश्यनिर्मितिविधौ विधिरप्यशक्तः // 14 // देवी-एसा मए तुज्झ समप्पिदा। भजमु णं चउसमुद्दपुहवीए रत्तम् / (इति हस्ते नायिकां समर्पयति / ) (ख) राजा—(गृहीत्वा / ) प्रसन्नं देव्या / देवी-अमञ्च, जुत्तं कदम् / (ग) अमात्यः-किमुच्यते / वंशे तस्मिन्नजनि भवती मौक्तिकोसिक्तकान्तिः __कीर्तिर्यस्य च्छुरयति सुरक्ष्माधरेन्द्रस्य वक्षः / चालुक्यानां वसुमति गृहे किं च तेषां वधूस्त्वं यैनिश्चिन्तः कलयति हरिः सागरे नाम शय्याम् // 15 // (क) आश्चर्यम् / प्रत्यक्षं सैवैषा / अहो माहात्म्यं कपटनाटकस्य / (ख) एषा मया तुभ्यं समर्पिता / भजैतच्चतुःसमुद्रपृथिव्या रत्नम् / (ग) अमात्य, युक्तं कृतम् / 1. 'नायिकां सलजामन्तिके निवेशयति / स्वगतम्' इत्यादर्शपाठः.