________________ 4 अङ्कः] . कर्णसुन्दरी। 49 वरयुवतिरमन्दं चन्दनस्यन्दसान्द्र- प्रसृतलवणिमाम्भःपङ्किलामङ्कपालीम् // 8 // . (सोत्सुक्यम् / ) रम्भास्तम्भमनोभिरामसहजस्पर्शा यदूरुस्फिजः संपन्नागुरुधूपवासविधयो यन्मजनार्द्राः कचाः / यच्चाकैतवशीतलाः कुचभुवः सा कान्तिरेणीदृशः पुष्पेषोस्तदहो निदाघसमयम्लानस्य जीवातवे // 9 // अपि च / ताम्बूलद्रवमुद्रणेन विधुरच्छायो न बिम्बाधर चक्षुः क्षालितकज्जलं जलभरैः पुष्यत्यभिख्यां निजाम् / कोऽप्यन्यः कबरीभरस्य विगलद्विन्दोरमन्दो रसः स्नानान्ते सपदि स्मरास्त्रमनघं किं वा न वामभ्रुवाम् // 10 // तत्किमद्यापि चिरयति देवीसमाह्वानम् / विदूषकः-भो, मा उत्तम / देवीए एसो पडिहासो त्ति महन्तो अहिणिवेसो / (क) (प्रविश्य / ) चेटी-जेदु जेदु भट्टा / एदाई आहरणाई देवीए पेसिदाई विवाहजोग्गाई परिहाइअ विवाहभूमी तुरिदं अलंकरीअदु / (इत्याभरणानि समर्पयति / ) (ख) . राजा-एतत्त्वं गृहाणापरम् / मां समागतं देव्यै निवेदय / (इति कण्ठादवतार्य मुक्तादाम समर्पयति / ) (चेटी गृहीत्वा निष्क्रान्ता / ) (क) भोः, मा उत्ताम्य / देव्या एष परिहास इति महानभिनिवेशः / (ख) जयतु जयतु भर्ता / एतान्याभरणानि देव्या प्रेषितानि विवाहयोग्यानि परिधाय विवाहभूमिस्त्वरितमळक्रियताम् /