________________ काव्यमाला। हा हानिमहती कता विरहिणां यद्वजसारान्स्मरः ___ कोऽप्यन्यः क्षिपति प्रतिक्षणमयं मर्माविधः सायकान् // 4 // अपि च / न प्राप्तः प्रणयापराधसमये बाष्पाम्बुधौतोऽधर श्चित्रं नात्र विपर्ययेण सुतनोदृष्टं भ्रुवोस्ताण्डवम् / निद्रामुद्रितचक्षुषः श्रुतमपि क्रीडावसाने मया ___ न प्रत्युत्तरमुत्कटाक्षरमहो वामः प्रकामं विधिः // 5 // विदूषकः-अहो, अज वि किंति उत्तम्मसि / जं मसिविलित्तं कदुअ पिसुणाणं वअणं संपण्णकप्पो जादो मणोरहो / (क) राजायुक्त्या यद्यपि मुद्रितो विधिरयं चेतस्तथापि स्थिरा माशामेति कुरङ्गशावकदृशः प्राप्तौ न तस्याः क्षणम् / अङ्कस्थेऽपि जने मनोहति किमप्युत्प्रेक्षते तत्क्षणाज्ज्ञेयं कापि सुलोचना पुनरसावायाति दूरे दृशोः॥ 6 // (नेपथ्ये / ) सुखाय ग्रीष्मसमयो महाराजस्य / संप्रति सत्पानीयमिति श्रुतेः स्वभवने पूर्व परीक्षाविधौ / त्वद्वैरिक्षितिपालपक्ष्मलदृशस्तृष्णातुराः कानने / बाप्पाम्भःकणचक्रवालरचनाचञ्चत्कपोलान्तरं मुक्तादाम विलोकयन्ति गमनव्यग्राः कुचाग्रस्थितम् // 7 // राजा--(सोत्कण्ठम् / ) सपदि दिवसमध्ये पुण्यभाजः सुजन्मा वितरति रतिलीलोल्लासिना मानसेन / (क) अहो, अद्यापि किमित्युत्ताम्यसि / यन्मषीविलिप्तं कृत्वा पिशुनानां वदनं संपन्नकल्पो जातो मनोरथः / 1. 'अपि च' इत्यादर्श नास्ति.