________________ 3 अङ्कः) . कर्णसुन्दरी। 45 देवी-(आत्मगतम्।) हदास, तुज्झ एसो सव्वो एव्व परिफन्दो / (क) राजा-सखि बकुलावलि, किमियं वामता भवत्सख्याः , यदेवमालोकनेनापि न कृतार्थयति / हारलता-णेहो एत्थ अवरज्झदि, णो उण वामदा / (ख) राजाझटिति कुवलयानि वीडया पीडितत्वा द्दधतु कृतकनिद्रां चन्द्रिकासंगमेऽपि / अपि तरलय लीलामज्जदुन्मज्जदन्तः स्फुरितकुसुमचापं चक्षुराकेकराक्षि // 28 // अपि च / सुतनु विसृज लज्जां वल्गु वल्गन्तु वाचः ___ कवचयतु विपञ्चीपञ्चमः श्रोत्रयुग्मम् / . अपि कुरु परिरम्भं चारु रम्भोरु गात्रे __ परिणमति कठोरः कैरवेशप्रकाशः // .29 // (इति समन्तादवलोक्य / आत्मगतम् / ) अहो निःसीमं रामणीयकम् / जयति धनुरधिज्यं भ्रूविलांसः स्मरस्य स्टशति किमपि जैत्रं तैक्ष्ण्यमक्ष्णोः प्रचारः / अपि च चिबुकचुम्बी श्यामलाझ्यास्तनोति स्तनकलशनिवेशः पेशल श्रीः प्टथुत्वम् // 30 // (इत्यालिङ्गति / ) देवी-(प्रकटीभूय / ) साअदं अजउत्तस्स / (इति क्षिपति / ) (ग) निजवदनसवर्ण यामिनीडिम्भमेनं वहति रजनिनाथो लालयन्निवाथे // . (क) हताश, तवैष सर्व एव परिस्पन्दः / (ख) स्नेहोऽत्रापराध्यति, न पुनर्वामता / (ग) खागतमार्यपुत्राय / 1. 'पेशलश्रीपृथुत्वम्' इत्यादर्शपाठः.