________________ काव्यमाला। . राजा-(सवैलक्ष्यम् / ) स्वयं कृतेऽपराधे तु ज्ञाते धीर्यस्य जायते / / अपत्रपायां महती तद्वैलक्ष्यं वयं स्तुमः // 31 // (विदूषको राज्ञः पक्षश्चाधोमुखस्तिष्ठति / ) राजात्वां प्रत्येव मयापि नर्म कृतमित्युक्ते कुतो मन्यसे निर्दोषोऽहमिति ब्रवीमि सहसा दृष्टव्यलीकः कथम् / - क्षन्तव्यं मयि सर्वमित्यपि भवेदङ्गीलतोऽयं विधिः किं वक्तुं मम युक्तमित्यनुगुणं देवि त्वमेवादिश // 32 // (इति पादयोः पतितुमिच्छति।) (देवी साक्षेपं हारलतया सह निष्क्रान्ता।) विदूषकः-भो, किं अरण्णरोदणेण / देवी एव्व अणुसरीअदु / (क) राजा-एवमिति / (इति निष्क्रान्ताः सर्वे / ) तृतीयोऽङ्कः। , चतुर्थोऽङ्कः / . (नेपथ्ये / ) अवन्ध्या भवतु प्रभातसंध्या देवस्य / संप्रति रवितुरगखुराग्रक्षुण्णपूर्वाद्विधातु क्षितिरज इव धत्ते धाम पौरंदरी दिक् / अपरजलधिवेलोद्भूतडिण्डीरपिण्ड भ्रमममृतमरीचिः किं च दत्ते प्रतीच्याम् // 1 // अपि च / चन्द्रालोकनरागजागरणतः श्रान्तेव कृत्स्नां निशां प्रालेयानिलसौहृदात्कुमुदिनी निद्रावृता घूर्णते / अप्येते विदितप्रबोधसमयाः प्रत्यूषभोगावली यन्तीव कलस्वरा मधुलिहः पद्माकराणामितः // 2 // -- (क) भोः, किमरण्यरोदनेन / देव्येवानुस्रियताम् /