________________ 44 काव्यमाला। . श्रुतमपि भुजशाखापञ्जरे चारुलीला मधुरमधरपीडाकूजितं नायताक्ष्याः // 23 // . (इति सौत्सुक्यम् / ) सान्द्रश्रीखण्डपाण्डुस्तनकलशभरात्तारहारप्रकाण्ड ज्योत्स्नापुञ्जाभिषेकद्विगुणपरिणमत्कौमुदीमग्नवत्रा / उत्कण्ठाकृष्यमाणा प्रगुणमनसिजादिश्यमानेन काचि न्मार्गेण प्राणनाथप्रणयरभसतः सान्द्रलीलां तनोति // 24 // यस्यै कुप्यति नूतनस्तरुणिमा लावण्यलक्ष्मीरियं यत्रापत्रपते न संवदति या प्रेमानुबन्धस्य न / श्रुत्वैतां च ततां गिरं चिरमसावेतत्किमित्याकुलो - वैक्लव्यं च कुतूहलं च वदनं स्मेरं च धत्ते स्मरः // 25 // . (ततः प्रविशति कर्णसुन्दरीवेषा देवी, बकुलावलिवेषा हारलता च / ) देवी-सहि हारलदे, अझे किं पि सुणन्तिओ चिट्ठह्म / (क) राजा-अये, कथं प्राप्तैव प्राणेश्वरी / (मुखमवलोक्य / ) अहह / जानामि विस्मृतिममन्यत पायोनि लावण्यसारमभिलिख्य मृगाङ्कविम्बम् / तेनात्र काकपदकं हरिणच्छलेन . दत्त्वा लिलेख मुखमायतलोचनं ते // 26 // विदूषकः-अहं पि दाव वण्णेमि / रइकलहविरोहे रोहिणीकज्जलंसु प्पसरपरिगदोव्व ज्झामलो लञ्छणेण / निजवअणसवण्णं जामिणीडिम्भमेणं वहइ रअणिणाहो लालयन्तो व्व अङ्के // 27 // (ख) (क) सखि हारलते, आवां किमपि शृण्वत्यौ तिष्ठावः / (ख) अहमपि तावद्वर्णयामि / . रतिकलहविरोधे रोहिणीकज्जलाश्रु प्रसरपरिगत इव श्यामलो लाञ्छनेन /