SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 3 अङ्कः] . कर्णसुन्दरी। मध्ये कस्तूरिकाक्षं दधदिव हरिणं किं च संध्यानुबन्धा - दिन्दुः सिन्दूरभिन्नस्फटिकमणिशिलाबुध्नलीलां तनोति // 20 // तदादेशय तमुद्देशं यावन्नालम्बते जरठतां रजनीपरिवढः / विदूषकः-इदो पिअवअस्सो / (क) (इति परिकामतः / ) विदूषकः-(अग्रतो दृष्ट्वा / ) एदं तं। पविसद् भवं। उपविसदु पिअवअस्सो / (ख) (तथा कुरुतः।) राजा-अहो रम्यः समयः। बध्यन्ते कुसुमगृहाणि धूपधूमै स्तान्येव स्मरदयितानि संस्क्रियन्ते / धन्यानामपि च सुलोचनासमीपे रोचन्ते सपदि मनोलसद्विलासाः // 21 // विदूषकः-भो वअस्स, कीराणं पञ्जराणं सुरतकलरुओग्घुट्टवादानुवाद त्तासेणं किज्जमाणा मणिमयवलहीवाहिराई वडन्ति / सेज्जाठाणे कआणं फुरइ कलरवो केलिपारावआणं धण्णाणं हुन्ति कीलाजलकणहरणा संपदं चन्दपाआ॥२२॥(ग) राजा-(निःश्वस्य / ) उरसि सुरतनिद्रालीनकान्ते न मग्नं . धवलगृहगवाक्षस्पन्दिभिश्चन्द्रपादैः / (क) इतः प्रियवयस्यः / (ख) एतत्तत् / प्रविशतु भवान् / उपविशतु प्रियवयस्यः / (ग) भो वयस्य, कीराणां पञ्जराणां सुरतकलरुतोश्रुष्टवादानुवाद त्रासेन क्रियमाणा मणिमयवलभीबहिर्भागेण पतन्ति। शय्यास्थाने........ स्फुरति कलरवः केलिपारावतानां धन्यानां भवन्ति क्रीडाजलकणहरणाः सांप्रतं चन्द्रपादाः // .
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy