________________ 42 काव्यमाला। राजा-(लेखं बहुलं प्रसार्य / ) कथमत्राप्यक्षराणि / (वाचयति / ) पश्यागच्छ कुतूहलादपि गृहानस्माकमाकर्णय त्वं देवि च्छलिता न केनचिदिति प्रोक्तं शुकानामपि / सा नः कापि सखीषु नास्ति सुभग प्राप्तस्तदीयाङ्गकस्पीष्मग्लपितो न कामपि रुजं यस्याः किणाङ्कः करः॥१७॥ कथमपि हृदि कृत्वा त्वद्वियोगातिभारं . सुभग निबिडलज्जामज्जदारम्भमास्ते / ... ' पिशुनयति कशाङ्गयाः केवलं मन्मथाग्निं श्वसितपवनधूमश्यामला चित्रशाला // 18 // विदषकः-(पुरतोऽवलोक्य ) भो, तुह्माणं दुहुँ पि तारिसो सिणेहो जारिसो इमस्स चक्कवाअजुअलस्स / (क) राजा-( सस्पृहमैवलोकयन् / ) .. रक्ताम्भोरुहचारुचचुपुटकेनोद्धर्तुमिच्छन्निव भ्रश्यत्पश्यति बिम्बमम्बरमणेश्चक्राहयो विह्वलः / साश्रुर्मुञ्चति चक्षुषी प्रतिदिशं कान्तास्य दीनानना _मा भैषीस्त्वमिति खकालविरहत्राणार्थिनीवानिशम् // 19 // विदूषकः-भो, निरन्तरगोधनसहस्ससमुहूतधूलीसमुच्छाहिदतरुणतरतिमिररिञ्छोलीलञ्छणे समए अणुसरीअदु संकेदहाणम् / (ख) राजा-(ऊर्ध्वमवलोक्य / ) संधत्ते धूपधूमच्छविमबहु तमः प्राप्यते तारकाभिः पुष्पस्नग्दामशोभा नभसि नवनिशाकामिनीतल्पकल्पे / (क) भोः, युवयोर्द्वयोरपि तादृशः स्नेहो यादृशोऽस्य चक्रवाकयुगलस्य / (ख) भोः, निरन्तरगोधनसहस्रसमुद्भूतधूलीसमुत्साहिततरुणतरतिमिरपतिलाञ्छने समयेऽनुस्रियतां संकेतस्थानम् / 1. ' लेखनं' इत्यादर्शपाठः. 2. 'श्वसिति' इत्यादर्शपाठः. 3. 'अवलोकयति' इत्यादर्शपाठः.