________________ 3 अङ्कः . कर्णसुन्दरी। . (राजा वाचयति / ) . एतां गृहाण सखि रत्नगृहप्रविष्टां ज्योत्स्ना पिधाय सहसैव गवाक्षमार्गान् / नीलीरसेन सह वर्तय पट्टके च चन्द्रः समेतु कियतापि परिक्षयेण // 12 // ज्योत्स्नानिर्गममार्गमुद्रणविधि धत्तोरुकुम्भे मुहु स्ताराः कारयतान्यतो बैत मुहुः संमार्जनीनां चयैः / पञ्चेषोर्भजताभिचारचरुतां विस्मार्यतां पञ्चमः किं चायं पिकमण्डलस्य मयि चेत्सख्यः सुखं वाञ्छथ // 13 // अपि च / कलयत दलबन्धं संधिषु न्यस्य सान्द्र ननु जतुरसपत पङ्कजेन्दीवराणाम् / इह विरहवतीनां जीवितं येन नायं __हरति परिमलश्रीबान्धवो गन्धवाहः // 14 // नयनयुगलवल्गन्नीरसंक्षाल्यमान__ स्तनमलयजलेपा सावलेपा कथासु / इति सुभग समग्रामेव रात्रि विधत्ते निरुजसुलभवस्तुप्रार्थनाभिः सखीनाम् // 15 // अपि च / धूर्तोऽयं सखि बध्यतामिति विधु रश्मिव्रजैः कर्षति ... ज्योत्स्नाम्भः परतः प्रयात्विति रिपुं राहुं मुहुर्याचते / अप्याकाङ्क्षति सेवितुं सुवदना देवं पुरद्वेषिण भूयो निग्रहवाञ्छया भगवतः शृङ्गारचूडामणेः // 16 // विदूषकः-एहिं किं मण्णसि / (क) (क) अधुना किं मन्यसे / 1. 'वरमुहुः' इत्यादर्शपाठः. 2. 'चतुरा' इत्यादर्शपाठः, 3. 'विधू' इत्यादर्शपाठः.