________________ 40 काव्यमाला। . राजा-(सहर्षमालिङ्गय / ) कथमिव / विदूषकः-(कर्णे / ) एव्वमेवं / (क) राजा-(सानन्दम् / ) भूयोऽपि तावदिदमेव निवेदय त्वं चन्द्रांशुभिः कवलिता इव सूक्तयस्ते / अन्तर्बहिश्च हृदयेन किमप्यमन्द निःस्यन्दमिन्दुमणिनेव विलीयते मे // 8 // . . (इति सोत्साहम् / आकाशे।) भव भव शतयामा यामिनि स्वामिनि त्वं छुरय रजनिनाथ ज्योत्स्नया दिङ्मुखानि / अयि विरमय काम क्रेङ्कितं क्रूरबाण- . __ - व्ययपरिचयचञ्चत्कर्मणः कार्मुकस्य // 9 // (गगनमवलोक्य / ) सखे, समासन्नप्रायस्तत्र गमनसमयः / तथा हि / व्योमभ्रान्तिपरिश्रमेण तृषितैराकष्यमाणो हयैः प्रस्वेदश्लथमानसारथिकरप्रभ्रष्टवल्गैरिव / अम्भोधेरधिकूलकच्छगहनं क्षीणच्छवि क्ष्माभृतः ___ स्थित्वा मूर्धनि पश्चिमस्य विशति स्वैरं ग्रहग्रामणीः // 10 // अपि च / दूरं भानुरुदञ्चितारुणकरः पाथोनिधौ पद्मिनी स्पर्शासक्तरजोङ्गरागविगमत्रासादिवामजति / अन्तः कान्तिमिव प्रियस्य विरहोत्कण्ठाविनोदार्थिनी रोद्धं मुद्रयति स्वपङ्कजवनीकोषं च पाथोजिनी // 11 // विदूषकः-भो पिअवअस्स, अअं अ तीए अवत्थाणिवेदओ विरहलेहो वाचीअदु / (ख) (क) एवमेवम् / (ख) भोः प्रियवयस्य, अयं च तस्या अवस्थानिवेदको विरहलेखो वाच्यताम् /