________________ 3 अङ्कः] . कर्णसुन्दरी। 39 (इति साङ्गभङ्गम् / ) तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पङ्केरुहं तद्भङ्गविनिर्जितं स्मरधनुर्ननं सदा तिष्ठति / इन्दुः किं दुरतिक्रमस्य कुरुतां धातुः सुधासूतिर प्यकं तन्मुखकिंकरत्वपिशुनं धत्ते सहोत्यं यतः // 3 // (स्मरणमभिनीय।) प्रायो दास्यति नो पयोधरतटी गन्तुं पुरस्तादिति ध्यानेनेव चकास्ति साचिगमने शिक्षारसश्चक्षुषोः / अन्तः स्थानमिव स्मरैकमुहृदः कस्यापि दातुं बहि निर्गन्तुं हृदयादपि स्तनयुगं विस्तारि संनयति // 4 // अपि च / ___ कान्तिः कापि कपोलयोः परिणमत्तालीदलस्पर्धिनी वर्धन्ते मधुपावलीवलयिनः श्वासानिलाः संततम् / कार्यस्यावरणं तरङ्गितर्गतेर्लावण्यमेवाङ्गके सारङ्गायतचक्षुषः किमथवा सर्व नवीनायते // 5 // अपि च / कंदर्पदैवतनिकेतनवैजयन्ती ___ यान्ती विलासरसमन्थरमुत्पलाक्षी / दृष्टिं निवेदितवती मयि कालकूट लेशान्धकारितसुधालहरीविचित्राम् // 6 // (सनिःश्वासम् / ) तत्किमद्यापि चिरयति वयस्यः / विज्ञातेङ्गितया तरङ्गितघनक्रोधानुषङ्गं धृतः - किं देव्या प्रतिपालयन्परिजनं तस्याः क्वचित्सुभ्रवः / खेदं सैव सखेलवारणगतिर्न प्रापिता चेति मे चेतः सान्द्रसमुल्लसन्नवनबोल्लेखं मुहुस्ताम्यति // 7 // . . (प्रविश्य / ) विदूषकः-दिद्विआ वसि कज्जसिद्धीए / (क) . (क) दिष्टया वर्धसे कार्यसिद्ध्या / 1. 'वनस्पर्धिनी' इत्यादर्शपुस्तकपाठः. 2. 'गतैर्' इत्यादर्शे पाठः.