________________ काव्यमाला। __ मन्दोदरी-अहो, संकडे पडिदो महाराओ / (इत्यप्रतोऽवलोक्य / ) एसो भट्टा लच्छीसणाहो णूणं एत्थ रमणपगीवएतंव जेव पडिपालअन्तो चिढदि / ता एहि गच्छामो / जाव अह्मे पेक्खिअ ण किं पि उप्पिस्सदि / (क) (इति निष्क्रान्ते / ) प्रवेशकः। (ततः प्रविशति यथानिर्दिष्टो राजा।) राजा न स्वेच्छागतयोऽपि साचिवलनावैचित्र्यशून्या दृशो ___नाधौताधरकान्ति संस्तुतजनालापेऽपि लीलास्मितम् / वाचां विस्मरणेऽपि न व्यवहिता विच्छित्तिसंक्रान्तय स्तात्पर्य मदनेन दर्शितमहो वैदग्ध्यदीक्षाविधौ // 1 // अपि च / तद्वक्रेण विलुप्तकान्तिमहिमा वर्णोज्झितः शर्वरी मब्रह्मण्यमिव प्रसारितकरः कृत्स्नां विधत्ते विधुः / अप्याविष्कृतपत्रमुत्पलवनं तल्लोचनेन्दीवर च्छायारिक्थमिव द्विरेफपटलीवाचालमाकाङ्क्षते // 2 // मपि कर्तुं न शक्नोतीति सर्वगतः प्रवादः / किं तु भर्तदारिकया कलहायमानोऽपलापं करोति / अद्य खलु प्रिय "........."आर्यबादरायणेनान्तःपुरशालायाः पश्चान्निभृतं भूत्वाद्य प्रदोषे परिकलितमदनोद्यानके संकेतो गृहीतः.......मन्त्रितं न वेति विरहलेखश्च निजकरे कृतः / देव्या सर्वमपि श्रुत्वाहं भणिता अद्य मया कर्णसुन्दरीरूपेण त्वया तस्याः सखीरूपेण गत्वार्यपुत्रो वञ्चयितव्यः / तदस्या वार्ताया रक्षणं कृत्वोपकरणं सज्जीकुरुष्वेति / (क) अहो, संकटे पतितो महाराजः / एष भर्ता लक्ष्मीसनाथो. नूनमत्र रमण.......... एव प्रतिपालयस्तिष्ठति / तदेहि गच्छावः / यावदावां प्रेक्ष्य न किमपि............ /