________________ काव्यमाला। नायिका-(विलोक्य / आत्मगतम् / ) अणब्भए इदं वजपडणं पेक्खिदम् / (क) सखी-महाराअ, सुमरिदव्वो अअं जणो / संपदं अण्णदो गच्छम / (ख) विदूषकः-अझे वि एव्वं जेव्व करेम / (ग) (नायिका सख्या सह निष्क्रान्ता / ) राजा-(निःश्वस्य / ) कथमपि दिवः पुञ्जीभूय च्युतामिव कौमुदी कुमुदसुहृदः प्राप्य प्राणाधिकां विधिकारणात् / अहरहरहो प्राप्तं लीलारसोर्मिषु मज्जता क्षणमपि मया न स्वातन्त्र्यं किमत्र विधीयताम् // 42 // . (ततः प्रविशति देवी हारलता च / ) हारलता-कहं भट्टावि इह जैव / (घ) / देवी-राअकजविरहे इमस्सि काले इह * जेव्व दिणं णिविण्णो विणोदइ अजउत्तो अत्ताणअंत्ति / (ङ) राजा-अपि विज्ञातोऽहं देव्या / विदूषकः-तधा कुविआ वअस्सेण अणुणीदा कधं विप्पदीवं पसज्जिअ अणुसरिस्सदि / (च) (क) अनभ्रे इदं वज्रपतनं प्रेक्षितम् / (ख) महाराज, स्मर्तव्योऽयं जनः / सांप्रतमन्यतो गच्छावः / (ग) आवामप्येवमेव कुर्वः। (घ) कथं भर्तापीहैव / (ङ) राजकार्यविरहेऽस्मिन्काले इहैव दिनं निविण्णो विनोदयत्यार्यपुत्र आत्मानमिति / . (च) तथा कुपिता वयस्येनानुनीता कथं विप्रतीपं प्रसज्ज्यानुसरिष्यति / 1. आदर्शपुस्तकसंशोधकेन हारलतास्थाने देवी, देवीस्थाने च हारलता इति पदं शोधितमस्ति.