________________ 2 अङ्कः] . कर्णसुन्दरी। नायिका- (सकृतककोपम् / ) अवेहि पडिहासशीले / (इति सासूयमवलोकयति / ) (क) राजाइयं यदालोकयति त्रपानता दृशा नवेन्दीवरदामदीर्घया / - तदन्यदेवाभ्यधिक रसायनादवैमि पुष्पायुधदेहदोहदम् // 40 // (इति पटाश्चले मृशन् / ) नायं जनः किमु परिच्छदमध्यमास्ते __ यल्लजया ननु तनूदरि मुद्रितासि / आलिङ्ग मां परिचितानि चिराद्भवन्तु देहे हरिन्ति हरिचन्दनपल्लवानि // 41 // (इत्यालिङ्गितुमिच्छति / ) - नायिका-(स्वगतम् / ) हिअअ, मणोरहाणं वि उपरि वहसि / (ख) सखी-दिजउ एदाणं वीसम्भगोही। (इति शनकैः किंचिदपसरति।) (ग). विदूषकः-भोदि, एसा देवी आगदा / (घ) - (सखी ससंभ्रमं निवर्तते / नायिका सभयमुत्तिष्ठति / ) . . राजा-(सशङ्क दिशोऽवलोक्य।) मूर्ख, क्वासौ / विदूषकः-भो, तत्तभोदि कण्णसुन्दरिं उद्दिसिअ देवी उज्जाणमलंकरेदित्ति भणिदं / (ङ) राजा—(अग्रतोऽवलोक्य / ) कथं सत्यमेवागता देवी / अहो ब्रह्मवन्धोरमुष्य फलितममङ्गलेन / .(क) अपेहि परिहासशीले। (ख) हृदय, मनोरथानामप्युपरि वर्तसे / (ग) दीयतामेतयोविनम्भगोष्ठी। (घ) भवति, एषा देव्यागता / (ङ) भोः, तत्रभवती कर्णसुन्दरीमुद्दिश्य देव्युद्यानमलंकरोतीति भणितम् / 1. 'सास्त्रमवलोकयति' इत्यादर्शपुस्तकपाठः.