________________ 30 काव्यमाला। राजा-(सानन्दमात्मगतम् / ) मग्नं मृगाङ्कसरसीव सुधानिधाने ___ गर्भ निषण्णमिव पङ्कजकैरवाणाम् / अप्यत्र यन्त्रविनिपीडितपारिजात- * निःस्यन्दधौतमिव निर्टतिमेति चेतः // 38 // सखी-सहि, एदेण हत्थफंसेण ण उच्छससि त्ति अहो दे कठिणत्तणम् / (क) नायिका-(किंचित्समाश्वस्य / ) अम्मो, किंत्ति रसाअणसित्तेव्व णिव्वुदि उव्वहामि / एसो जिआअणो कङ्खिदो जणो / (इति किंचिदृष्ट्वा सलजमास्ते / ) (ख) राजावद सुवदने किं व्यामोहः समाश्वसिहि द्रुतं प्रणयिनि जने किं प्रत्याशाविरोधि विचेष्टितम् / नय नयनयोरातिथ्यं मां मनोभववागुरा. परिचरतु मां नीलाम्भोजस्रजः कलयान्विता // 39 // विदूषकः- भोदि, किं ण अलिअणिद्दा विद्दावीअदि / पिअवअस्सो एव्वं दीणत्तणं दंसेदि / (ग) सखी- (सहासम् / ) किंत्ति पडिपत्तिमूढदा अङ्गीकदेत्ति। (एनां बलादा. नीय राजान्तिकमुपवेशयति / ) (घ) (क) सखि, एतेन हस्तस्पर्शेन नोच्छृसिसीत्यहो ते कठिनत्वम् / (ख) अहो, किमिति रसायनसिक्तेव निर्वृतिमुद्वहामि / एष जीवन काङ्कितो जनः / (ग) भवति, किं नालीकनिद्रा विद्राव्यते / प्रियवयस्य एवं दीनत्वं दर्शयति / (घ) किमिति प्रतिपत्तिमूढता अङ्गीकृतेति /