________________ 2 अङ्कः] . कर्णसुन्दरी। गुर्वी धुरं दुरमियोगनिधिर्मनोभू- रारूढवानविषये मनसोऽनुबन्धः / बन्धुर्न कश्चिदपि निघ्नतया स्थितिश्च हा निश्चितं मरणमेव ममेह जातम् // 35 // (इति मोहमुपगच्छति / ) विदूषकः-भो, पमादो पमादो / मए पढमं जेव्व आअक्खिदं उपसप्पीअदु त्ति / (क) - (राजा संभ्रममुपसर्पति / ) सखी-विजयताम् / विदूषकः-अब्बह्मण्णं अब्बह्मण्णम् / (ख) सखी-महाराअ, हत्थेषा फंसीअदु जेण चेअणं पावेदि / (ग) राजा-(तथा कुर्वन् / ) . विलोलत्वं चक्षुः स्टशति मुकुलावस्थमपि य__ हुरखिद्यन्मध्यं कुचकलशयोरुच्छ्वसिति यत् / प्रसीदत्युद्दामा यदपि वदनश्रीः सपुलकं / . तदेतस्याः संज्ञा ध्रुवमभिमुखी पक्ष्मलदृशः // 36 // (पुनरवलोक्य / ) अहो सर्वावस्थाभिरव्यवधीयमानं रामणीयकमस्याः / तथा हि। भ्रूलेखा विनिवृत्तवृत्तरचना मुक्ताञ्चनोदञ्चन___ व्यापारा कुसुमास्त्रकार्मुकलतामुष्याः सगोत्रीकता / मीलल्लीलमुपैति लोचनयुगं निद्रालुनीलोत्पल___ स्पर्धा श्वासकदर्थितोऽपि भजते बिम्बाधरः स्वां धुरम् // 37 // विदूषकः-भोदी मम पिअवअस्सहत्थेण फंसिज्जन्ती कहं ण चे... अणं पडिवजदि / (घ) (क) भोः, प्रमादः प्रमादः / मया प्रथममेवाख्यातमुपसृप्यतामिति / (ख). अब्रह्मण्यमब्रह्मण्यम् / (ग) महाराज, हस्तेन स्पृश्यतां येन चेतनां प्राप्नोति / (घ) भवती मम प्रियवयस्यहस्तेन स्पृश्यमाना कथं न चेतना प्रतिपद्यते /