________________ काव्यमाला / मत्री-राजा चाहं च रामलक्ष्मणाविव वर्तावहे / विदूषकः-अहं वि कोसिओ विअ / (क) राजा-(विहस्य / ) तादृक्प्रभावो महर्षिः खलु भवान् / विदूषकः-भो वअस्स, एसो अमच्चो एदाए मं बलिं दाऊण अप्पाणं मोचेदं अहिलसन्तो विअ दीसइ / दाणिं भवं जेव मह सरणम् / (ख) मत्री-वैधेय, क्षणं तूष्णीं तिष्ठ / शृणुमः शेषमपि वचनमेषाम् / वातादयः-अयि रुचिमति, त्वां वीक्ष्य जागरूकां तस्यां तम्यां रुचिप्रविष्टायाम् / स्वत एव भिद्यतेऽसौ विज्ञानादञ्जसा राजा // 14 // राजा आलापादेतेषां कुलालदण्डावघट्टनादिव मे। हृदयं भ्रमतीदानी सहसा चक्रमिव किं न्वेतत् // 55 // विदूषकः-अण्णं किम् / दिढं खु णिगिहीदो सि तुमं एदाए अपत्थदापिसाचिआए / अहं उण छवेदो बह्मणो. होमित्ति सज्झसेण इमाए विसज्जिदो मि / (ग) मत्री-(विहस्य / ) पड्डेदा इत्यनया संख्ययैव सूचितं वेदविज्ञानम् / राजा—किं विस्मृतं त्वया यत्प्रागेव मम मनीषितार्थ विदूषकेण बोधितोऽसि / __ मत्री (स्वगतम् / ) अहो त्रुटितसंघटिताया दास्या विलसितं यदियन्तं कालं विस्मृतापि बुभुक्षा स्मृता सती राज्ञो हृदयमाकुलयति / (प्रकाशम् / ) तदप्यग्रे भविष्यति / देवेन तु एतद्वैरिप्रयुक्तमिति निश्चित्य तद्वशे न भवितव्यमिति बहुशः प्रार्थये / (क) अहमपि कौशिक इव / (ख) भो वयस्य, एषोऽमात्य एतस्या मां बलिं दत्त्वा आत्मानं मोचयि. तुमभिलषन्निव दृश्यते / इदानी भवानेव मम शरणम् / (ग) अन्यत्किम् / दृढं खलु निगृहीतोऽसि त्वमेतया अपथ्यतापिशाचिकया / अहं पुनः षड्डेदो ब्राह्मणो भवामीति साध्वसेनानया विसर्जितोऽस्मि /