________________ 6 अङ्कः] . जीवानन्दनम् / संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां . पातुं शक्यत एष किं तव ततो मौढ्यं त्वयाविष्कृतम् // 46 // (इति सभ्रक्षेपं तर्जयते / ) राजा-क एनमभिसरति / मत्री-एष मया नियुक्तो महातालेश्वरः / काल:-कर्मन्, औषधविशेषोऽयम् / विदूषकः-अध वेदिणीलोहिदाणं उवरि के वि उल्लुठअन्तो विअ दीसन्ति / (क) मत्री-सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति / कर्म-भगवन् , वेदिनीलोहिते पञ्चमीषष्ठ्यौ त्वचौ / तत्र कुष्ठादेरुत्पत्तिः। काल:-अस्त्येतत् / विदूषकः-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिज्जमाणसरीरो दीसइ / (ख) मत्री-स्थूलायां विद्रधिरेष शत्रुमल्लः / विदूषकः-(सभयम् / संस्कृतमाश्रित्य / ) प्राकारसप्तकमपि प्रसभं गृहीत्वा खेद्यानि सप्त च विशोष्य तथैव कोषान् / उल्लुण्ठयिष्यति रिपोर्निवहो भटानां म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि // 47 // राजा-धिक् प्रमादम् / हन्त विज्ञानशर्मन् , आक्रान्तमेवारिभिरान्तरम् / (क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्ठन्त इव दृश्यन्ते / (ख) अत्र पुनः स्थूलानाम्नि सप्तमे प्राकारे कोऽपि लोहकारभस्त्रिकेत्र पूर्यमाणशरीरो दृश्यते /