________________ काव्यमाला। मन्त्री-व्यङ्गनामा रोगः / अभिमुखमवेक्षमाणः शशरुधिरालिप्ततनुरिमं हन्तुम् / तिष्ठति मुखमावृण्वन्मञ्जिष्ठाप्रमुखसाधनो लेपः // 43 // विदूषकः-किं एदं मल्लाणं आजोहणं विअ जं रत्तप्पवाहो दीसइ / (क) मन्त्री वैधेय शस्त्रधाराक्षुण्णं प्रवहति पुरो न रक्तं यत् / .. तव मूढतां धिगेष प्राकारो लोहिनी नाम // 44 // काल:-त्वग्रूप एष द्वितीयः / कर्म तथैव / विदूषकः-अहो पमादो / सुवेदाए उपरि सब्वत्थ गअकण्णा वित्थिण्णा / (ख) कालः–कर्मन्, श्वेतनाम्नि तृतीयत्वक्प्राकारे चर्मदलं नाम रोगं पृच्छति विदूषकः। राजा-क एते संवर्तन्ते श्वेतायाम् / मन्त्री देव योधेन तत्रापि नियुक्तेन मया पुरा / आम्रपेश्यभिधानेन लेपेनाक्रम्य भूयते // 45 // विदूषकः--वअस्स, पेक्ख एत्य का वि दुद्धतरङ्गिणी विअ वहइ / ता अञ्जलीहिं गेह्निअ पिव / (ग) मन्त्री-धिगौदर्य, सर्वत्राभ्यवहारभ्रान्तिः / भ्रान्त, नेयं दुग्धतरङ्गिणी प्रवहति श्वित्रोऽयमिन्दुप्रभः प्राकारं किल तुर्यतामुपगतं ताम्राख्यमाक्रामति / (क) किमेतन्मल्लानामायोधनमिव यद्रक्तप्रवाहो दृश्यते / (ख) अहो प्रमादः / श्वेताथा उपरि सर्वत्र गजकर्णा विस्तीर्णाः / (ग) वयस्य, पश्यात्र कापि दुग्धतरङ्गिणीव वहति / तदअलिभिPहीत्वा पिब /