________________ 6 अङ्कः] . जीवानन्दनम् / भवतु / अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि / स एवास्य प्रतीकारः / (प्रकाशम् / ) प्रासादस्योपरि चलतु देवः / तत्रैव संपाद्यते महती तृप्तिः / राजा-बाढम् / (सर्वे प्रासादाधिरोहणं नाटयन्ति / ) विदूषकः-(सर्वतो विलोक्य / ) भो वअस्स, किं एदं भासिणीपाआरे अपुव्वं किं वि दीसइ / (क) राजा-अमात्य, किमिदम् / कर्म-भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः तत्र त्वग्रूपप्रथमप्राकारे सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते / तान्विदूषको राजा च न वेत्ति, अतः पृच्छति / कालः–सत्यमेवेदम् / मन्त्री-राजन्, सिध्मकपद्मककण्टकाः / विदूषकः-(सभयम् / ) वअस्स, एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्सन्ति / ता अस्मदो सिग्धं पलाअणं करेम / (ख) - मन्त्री-विदूषक, मा भैषीः / . गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे / .. एष हरिद्राक्षारः कण्टकहृतये मया प्रहितः // 42 // . राजा-सुष्टु कृतममात्येन / कालः-गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदूषको ब्रवीति / कर्म-एवमेतत् / विदूषकः-अज्ज, को एसो / (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते। (ख) वयस्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति / तदस्माच्छीघ्रं पलायनं कुर्मः / (ग) आर्य, क एषः। 11 ..