________________ काव्यमाला। मत्री-देव, धीरो भव / यदि नाहं प्राणिष्यस्तदिदमभविष्यत् / विदूषकः- (सकोपोपहासम् / ) एवं पच्चक्खं खुवट्टइ / तुमं उण अणुमाणेण एवं णत्थित्ति वण्णेसि / ता अच्छरिअंतको विण्णाणसम्ममन्तिणो / वअस्स, आकण्णेहि मे वअणं / एसो अमच्चो एव्व सव्वदुवारेसु सत्तुहिं आकन्तेसु भिक्खुवेसं गेह्निअ पलाइस्सदि / तुह पुणो दुल्लहो मोक्खो / ता एहि / सुरङ्गादुवारेण तुमं णइस्से / (इत्युत्थाय सर्वतो विलोक्य / ) हद्धी हद्धी / किं करेमि मन्दभग्गो / जलमत्तं वि कहिं वि ण दीसइ / सत्तापि जं परिहाओ रित्ताओ विअ दीसन्ति / (पुनदृष्टा / ) वअस्स, किं एवं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव्व सुक्काओ पुणो वि अपरिमिदरसाओ दीसन्ति / कधं इमाओ उत्तरिअ गच्छम / (क) राजा-अमात्य, श्रुतमेतस्य वचनम् / मत्रीएतन्न किंचन ततस्तवं मास्तु भीति रोनायितं रिपुजनस्य निरीक्ष्य किंचित् / यत्खेयपूरणविशोषणयोः समर्थ तन्मूलमेव हि विजृम्भणमप्यरीणाम् // 18 // अपि च। रिपवो लब्ध्वा मार्ग रसादिपरिखाः प्रकोप्य तन्मूलम् / देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः // 49 // (क) एतत्प्रत्यक्षं खलु वर्तते / त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि / तदाश्चर्य तर्को विज्ञानशर्ममन्त्रिणः / वयस्य, आकर्णय मे वचनम् / एषोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेषु भिक्षुवेषं गृहीत्वा पलायिष्यते / तव पुनर्दुर्लभो मोक्षः। तदेहि। सुरङ्गाद्वारेण त्वां नेष्ये / हा धिक् हा धिक् / किं करोमि मन्दभाग्यः / जलमात्रमपि कुत्रापि न दृश्यते / सप्तापि यत्परिखा रिक्ता इव दृश्यन्ते / वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा- इदानीमेव शुष्काः पुनरप्यपरिमितरसा दृश्यन्ते / कथमिमा अवतीर्य गच्छामः /