________________ जीवानन्दनम् / काल:-कर्मन् , मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा / कर्म–बाढम् / विदूषकः-अमञ्च, रण्णो दाणि बहुभक्खणणामहेऐ उवडिदे कज्जे / (क) _ मन्त्री-कीदृशी बहुभक्षणता / विदूषकः-किमण्णं / बुभुक्खिदो वग्यो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलअकालकुविदो रुद्दो विअ चिट्ठदि / (ख) __ मन्त्री-(विहस्य / स्वगतम् / ) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भविप्यतीत्येतस्य हृदयम् / (प्रकाशम् / ) गच्छाग्रतः / अहमप्यागमिष्यामि / (आकाशे दत्तदृष्टिः / ) किं न्वेतत्स्यात् / / कार्यान्ववेक्षणविधौ सदसि स्थितेन येन समाजनि चिरं सहितुं बुभुक्षा / भुक्त्वा च यस्य कियदप्यशनं नितान्तं - तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति // 36 // काल:-अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि / कर्मः—बाढम् / अलमिदम् / अन्यदप्यचिन्तनीयं बुद्धिविलसितमिति जानामि / यत्किल दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गी सती यः शान्तस्तपसि स्थितः स गिरिशः वं प्रत्युपात्तायुधम् / कोपोद्घाटितनैटिलेक्षणपुटप्रोदामधूमज्वल ज्ज्वालाजालविजृम्भणेन सहसा भस्मीचकार स्मरम् // 37 // काल:-(विहस्य / ) शृणु तावत् / (क) अमात्य, राज्ञ इदानी बहुभक्षणनामधेये उपस्थिते कार्ये / (ख) किमन्यत् / बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षितुकामो राजा मा खल्वेनं निवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति /