________________ काव्यमाला / विदूषकः-(सहर्षम् / ) अज्ज एव एवं करणिजं / जेण अहं वि ए. दस्सि कज्जे तुअ सहाअत्तणे दक्खो होमि / जम्मेण तु विण्णाणेण भवं मिदभोअणे सव्वदा सिक्खीअदि तेण विष्णत्तो वि तुमं तस्स वअणं मा करेहि / (क) राजा-साधु सखे, साधु / सम्यगुपदिष्टम् / तथा करिष्ये / काल:-वत्स, श्रुतं भवता। ___ कर्म-श्रुतमेव / एष पाण्डुना प्रहिताभपथ्यताजननी स्वस्य 'बहु बुभुक्षां न जानाति विदूषकोऽप्यजानन्नेवं भाषते / राजा-कः कोऽत्र भोः / विदूषकः-सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमच्चस्स आआरणत्थं दोआरिअं आमन्तेसि / (ख). राजा--वयस्य, मा बिभिहि / तव मतमेवानुसरामि / विदूषकः-जइ एव्वं थिरंपडिण्णो होहि / एदस्स अविह्मरणत्थं वसणन्ते मए बद्धो गण्ठी / अहं जेव्व तं आणेमि / (ग) (इति निष्क्रम्यामोत्यन सह प्रविशति / ) अमायः-सति दौवारिके राज्ञा किमर्थं त्वं प्रहितः / विदूषकः-एत्थ कजे अहं जेव्व दोवारिओ / (घ) अमासः-कीदृशे कार्ये / (क) अद्यैवैतत्करणीयम् / येनाहमप्येतस्मिन्कार्ये तव सहायत्वे दक्षो भवामि / जाल्मेन तु विज्ञानेन भवान्मितभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु / (ख) शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थ दौवारिकमामन्त्रयसि। (ग) यद्येवं स्थिरप्रतिज्ञो भव / एतस्याविस्मरणार्थं वसनान्ते मया बरो ग्रन्थिः / अहमेव तमानयामि / (घ) अत्र कार्येऽहमेव दौवारिकः /