________________ 6 अङ्कः] . जीवानन्दनम् / ज्ञानमद्वैतसन्मात्रं विपक्षस्तत्र को वद / .: स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी // 30 // मूढवदेहतादात्म्यं राजा न प्रतिपद्यताम् / बाधितं तद्दग्धपटन्यायेनास्त्विति तस्य धीः // 31 // तदुक्तमभियुक्तैः 'बाधितं दृश्यतामस्तेन बाधो न शक्यते / जीवन्नाखुन मार्जारं हन्ति हन्यात्कथं मृतः // 32 // किं च / मायया बहुरूपत्वे सत्यद्वैतं न नश्यति / मायिकानां हि रूपाणां द्वितीयत्वमसंभवि // 33 // कर्म-भगवन् , युज्यत एतत् / कालः–एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिष्यति तदालोकयिष्यावहे / (भुवमवलोक्य / ) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः / / _ (इति परिक्रामतः / ) (ततः प्रविशति राजा विदूषकश्च / ) | राजासंख्यापेततया रसानपि भृशं षट्सेवमानस्य मे . तेष्वेवातिबुभुक्षुता प्रतिमुहुर्हाहा सखे जायते / एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽनराशीनहं पीयन्ते च रसालमाक्षिकदधिक्षीराज्यकुल्या मया // 34 // अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू__रि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः / सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधिर्जायतां भुञ्जानस्य तथापि हन्त पिबतो न क्षुत्पिपासाशमः // 35 // तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् /