________________ काव्यमाला। प्रारब्धरहितस्यैवं भवेदेव न संशयः / प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः // 25 // किं च / __ लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिष्वकस्मात् / ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनस्ते प्रबला भवेयुः // 26 // . किं च। यक्ष्मणि जाग्रति तस्मिन्पाण्डुज्वरसंनिपातपरिवारे।। देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण // 27 // इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः / कर्म-ततस्ततः / काल:-तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहुस्तमित्थं प्रशंसन्नवोचत्त्वयि दत्तभरस्य मेऽधुना किं बहुनानेन विचारणश्रमेण / भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम् // 28 // कर्म-ततस्ततः / कालः–ततश्व किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम् / अतो विज्ञापयामि / तिष्ठतु दायं मद्वचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते / कर्म-भगवन् , ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः / काल:----वत्स, __ मोक्षे धीमा॑नमन्यत्र विज्ञानं शिल्पशास्त्रयोः / तयोविरोध इत्येतत्किमाश्चर्यकरं तव // 29 // कर्म-भवतु नाम तयोविरोधः / तदेवान्तरमुपलभ्य क्रियतां च द्विपद्भिपजापः / ज्ञानशर्मणा तु स्वामिहितैषिणा विपक्षानुकूलं पुराभिमानशैथिल्यं कथमुपदिष्टम् / __ काल:-नहि विपक्षानुकूलमिति न च तदीयोपजाप इति वा प्रवृत्तिरेतस्य / किं तु वस्तु तत्त्वमुपदेष्टव्यमित्येव तस्य स्वभावः /