________________ जीवानन्दनम् / किं च / संरक्ष्यते निजवशंवदसेवकेन यः पाण्डुना विमतखण्डनपण्डितेन / सोऽयं प्रतापपरिदग्धपुरो विसर्प ओयः कथं कथय संप्रति राजयक्ष्मा // 20 // कर्म-ततस्ततः। काल:-इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् / राजन् , श्रूयताम् / वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति / यथारणेतिरुचिरुद्यन्दहत्ययत्नादरणिं तमेव // 21 // .. अपन्थानं त्विति. न्यायादात्मद्रोहिषु तेष्वमी / आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो // 22 // अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु / किं च / स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः / जयश्रियं हस्तगतां जानातु भगवान्क्षणात् // 23 // कर्म-ततस्ततः। काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन्, 'इयतापि कालेन पुरस्य वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास पुरस्य दाबें योगस्य सिद्धिः सर्वार्थसाधिनी / अखण्डानन्दसिद्धिश्च फलं तेनैव जायते // 24 // कर्म-ततस्ततः / काल:-इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः। प्रत्युत हानिरेव फलम् / अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च / कुत एतावान्यत्न इति वदति राजनि पुनरपीत्थं समाहितवान्मन्त्री