________________ काव्यमाला। . (आकाशे / ) अरे विज्ञानहतक, आश्रित्य यं सततमुत्पतसि स्मयेन निर्वापयामि तमहं सहसैव जीवम् / पश्चाद्विनङ्ख्यति भवानपि चाश्रयस्य - नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः // 41 // राजा-कः कोऽत्र भोः, शस्त्रम् / (इत्युत्थातुमिच्छति / ) .. पाण्डुः-ननु संनिहितमेव शस्त्रम् / तथापि किंचिद्विज्ञापयामि / अस्त्येवायमन्तिमः प्रकारः / अपि तु त्रिषूपायेषु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः / उपायमिममेवातो मनो मे प्रयुयुक्षते // 42 // राजा-कोऽयमुपायः / . पाण्डुः—(कणे / ) एवमेवम् / राजा-भवतु तथा / अस्त्येवैतदनन्तरकर्तव्यम् / पाण्डुः-देव, मार्गश्रम इव दृश्यते सिद्धं च सर्व शयनादि / राजा-त्वमपि स्वकार्येऽवहितस्तिष्ठ / अहमपि भुक्त्वा निद्रास्थानं गच्छामि / (इति निष्क्रान्ताः सर्वे / ) इति पञ्चमोऽङ्कः / षष्ठोऽङ्कः / (ततः प्रविशति कर्मणा संह कालः।) . कालः–वत्स कर्मन्, जीवस्य राज्ञः पुरबाधनाथै यक्ष्मराजमन्त्रिणा पाण्डुना प्रयुक्तान्रोगरूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सरसतत्प्रतिभटजातं किं करोतीति जिज्ञासते मे हृदयम् / कर्म-भगवन् , सर्वानुस्यूतस्य तव किं नामाविदितमस्ति / काल:-भवानपि तादृश एव / महान्खलु तव प्रभावः / तथाहि /