SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 5 अङ्कः] . जीवानन्दनम् / मत्सरः-ततः कामादिषु तत्र तादृशी दुरवस्थां प्रपन्नेष्वहमेक एव हतभाग्यतया वैरिवशं गतस्तत्कृतमवमानजातमशरणतया सहमानस्तदीयभटैरितस्ततो विकृष्यमाणस्तदुदितवाचिकमपि निशमयंश्चारवधविमुखैस्तैरेव कृपया विमुक्तः प्रज्वलदवमानाग्निसंतप्यमानः स्वजनमुखावलोकने कृतलज्जतया क्वचन विजनकाननसीमनि कठोरतपश्चर्यया विनिपातिततनुर्भर्तुरातृण्यं भजेयमिति पुरान्निःसरन्नन्तरा सकिंकरेण कुष्ठेन देवपादमूलं प्रापित इत्येतदवसानं प्रवृत्तेः श्रुत्वा देवः प्रमाणम् / / राजा-कुमार, श्रुतं खलु निरवशेषमस्य मुखात् / किमत्र प्रतिवि धेयम् / पाण्डुः-(विचिन्त्य / ) देव, किमन्यत् / सन्तु यन्त्राण्यनेकानि सन्तु वा सैनिकाः परे / त्वत्कोपाग्नौ पतङ्गत्वं भजेरन्निति मे मतिः // 37 // राजा-पाण्डो, सत्यमेव किं कालविलम्बेन / सर्वथा प्रविश्यान्तःकोशागारम् शस्त्रेण सर्वमपि खण्डश एवः कृत्वा गृध्रव्रजाय निखिलं बलिमर्पयामि / येनौदनो दिविषदां विकलीकृतोऽभू कि तस्य मे भयममी कितवा विदध्युः // 38 // अपि च / __ अमृतनिधिरयं यः सोऽपि मत्पीडितः स... न विसृजति मदीयेनाधिनाद्यापि कार्यम् / निजविकटजटालीकाननस्थापितस्य प्रभवति स महेशोऽप्यस्य किं पूरणाय // 39 // हन्त हन्त / स ददाति नाम गिरिशो रसमेतेषामुपासनपराणाम् / - लब्धेनैतेनास्मानेते नाम प्रशमयन्ति // 40 // (विहस्य / ) अहो विचारचातुरी विज्ञानहतकस्य /
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy