________________ काव्यमाला / शल्यानि यानि किल देहभृतां शरीरे ___ नानाङ्गकेषु महतीं प्रथयन्ति बाधाम् / तेषां समुद्धरणकर्मणि साधनानि यन्त्राणि कानिचन संघटितानि तत्र // 31 // यानि किल अर्शीभगंदरमुखस्य रुजां गणस्य क्षाराग्निशस्त्रपरियोजनमङ्गरक्षाम् / . .. बस्त्यादिकर्मघटकादि च कार्यजातं कुर्वन्त्यपायरहितानि च तत्र तत्र // 32 // अपि च / यद्धर्यक्षसदृक्षरूक्षवदनं तत्सिंहवक्राभिधं यच्चक्षस्य मुखाभभीषणमुखं भल्लूकवकं हि तत् / तत्कङ्कानननामकं प्रतिभयं यत्कङ्कतुल्याननं यन्त्रं काकमुखं तदेव यदपि ध्वाङ्गातितीक्ष्णाननम् // 33 // विस्तीर्णानि नवद्वयाङ्गुलपरीणाहानि कण्ठे परं संनद्धानि च कीलकैः सुघटितैर्मूलेऽङ्कुशाभानि च / पर्यन्तेषु पुनर्मसूरसदृशाकाराणि तिष्ठन्त्यहो तत्र स्वस्तिकनामकानि कतिचिद्यन्त्राणि घोराणि च // 34 // तान्येव सुदृढान्यस्थिलग्नशल्यापकर्षणम् / कुर्वन्ति स्वस्तिकाख्यानि यन्त्राणि हि शरीरिणाम् // 35 // अपि च। एकान्येकमुखान्यपि नाडीयन्त्राणि सूक्ष्मसुषिराणि / स्रोतोगतशल्यानां दर्शनचूषणविधौ समर्थानि // 36 // एवमादिभिर्बहुविधैर्यत्रनिवहैरन्यैरपि परिगुप्ततया दुर्गममपि पुरं कथंचन प्रविश्य मनसः पारतन्न्यकरणाय वयं यावदितस्ततः संचरितुं प्रवृत्तास्तावदेव विज्ञानविधेयेन विचारनाम्ना नागरिकहतकेन परिज्ञाताः / पाण्डुः ततस्ततः /