________________ 5 अङ्कः] जीवानन्दनम् / देवस्य शंसति मुखाम्बुजमन्तरङ्गे . रूढां रुषा रिपुजने सहसैव चिन्ताम् // 26 // राजा-पाण्डो, विजने प्रासादे समुपविश्य सर्व बोधयिष्यामि / पाण्डुः-गलगण्ड, प्रासादमार्गमादेशय / गलगण्डः-इत इतो देवः / पाण्डुः-(विलोक्य / ) राजन् , आरुह्यतामयम् / . श्रीकण्ठक्षितिधरशृङ्गभङ्गदायी प्रासादः शिखरविराजिहेमकुम्भः / सोपानैः स्फटिकमयैः सुखेन गम्यो रम्योऽयं भवति कलस्वनैः कपोतैः॥२७॥ (सर्वे प्रासादारोहणं नाटयित्वोपविशन्ति / ) राजा-पाण्डो, किं न त्वया श्रुतो मत्सरात्परवृत्तान्तः / पाण्डुः-श्रुतं कुष्ठमुखात्पुरवृत्तं तं विशेषतः श्रोतुमिच्छामि / राजा-पाण्डो, श्रूयतां मत्सरमुखात्। ततः समुचितं प्रतीकारं विधास्यसि / मत्सर, कथय / मत्सरः संनद्धैः पुररक्षणे परिगतं प्राणादिभिः पञ्चभि___ स्तत्तद्देशगतैश्च यत्ननिचयैस्तद्दुष्प्रवेशं पुरम् / .. रन्ध्रान्वेषितया कथं कथमपि प्राप्ताः स्म देवाज्ञया _ यत्रान्तर्मुखतामुपेत्य नियतं जीवस्तपोऽतप्यत // 28 // राजा–के ते प्राणादयः कतिविधाः कुत्र गताः किंनामधेयाश्च / कानि च तानि यत्नानि कीदृशानीति सप्रकारमावेदय / मत्सरः" हृदयसततावासः प्राणो महाबलविक्रमः सकलमपि तद्यस्यायत्तं पुरं सपरिच्छदम् / कलितनिलयोऽपानो मूलस्थले हितकृद्विभो वसति च समानाख्यो गुल्फे बली घनशूलभृत् // 29 // किं च / कण्ठोपकण्ठे निवसन्नुदानः करोत्यकुण्ठां किल राजभक्तिम् / व्यानस्तु सर्वत्रचरः पुरेऽस्मिन्करोति जीवे सकलानुभूतिम् // 30 //