________________ काव्यमाला। न्तव्या / यथा खलु शास्त्रविद आचक्षते / यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति / अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमौपयिकम् / अहमिदानीं तदुचितं प्रतीकारमालोचयामि। कुष्ठः-आलोचयतु भवान् / आकर्णयिष्यति यदा वृत्तान्तमिदं स मत्सरमुखेन / दीपितरोषो हृदये देवोऽपि समागमिष्यति तदैव // 25 // .. तस्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः / पाण्डुः-अस्त्वेवम् / भवानवहितस्तिष्ठतु / कुष्ठः-तथा / (इति निष्क्रान्तः / ) पाण्डुः--कः कोऽत्र भोः। (प्रविश्य / ) गलगण्ड:-आज्ञापय करणीयम् / पाण्डुः-भद्र, अपथ्यतां प्रवेशय / गलगण्ड:-(निष्क्रम्य पुनस्तया सह प्रविश्य / ) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो विज्ञापयति / पाण्डुः-(अपथ्यतां प्रति / अपवार्य / ) अये, त्वं क्वचिन्महति राजकार्ये नियोजयितव्यासि / अपथ्यता-अवहिदमि / (क) पाण्डुः-जीवं प्रविश्य तमपथ्येष्वाहारविहारादिषु नियोजय / . अपथ्यता-तह / (इति निष्क्रान्ता / ) . पाण्डः—(पुरोऽवलोक्य / ) अये, देवः प्राप्तः / गलगण्ड, गच्छाग्रतः (ततः प्रविशति राजयक्ष्मा मत्सरश्च / ) पाण्डुः-(प्रणम्य / ) राजन्, कथमेतत् / तन्वन्पुनः पुनरपि भ्रुकुटि ललाटे निःसीमनिःश्वसितमुच्चलिताधरोष्ठम् / (क) अवहितास्मि /