________________ 5 अङ्कः] . जीवानन्दनम् / मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका. नामग्राहमपि प्रदर्श्य नगरान्निःसारितोऽहं शनैः // 19 // प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति / गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये // 20 // मत्सर: तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव / कुष्ठः फलिष्यति तपः किं ते न चेत्सख्यमजीगणः // 21 // ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् / अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् // 22 // तस्मादग्लानिरेव क्रियताम् / ' मत्सरः-का गतिः / (इति कुष्ठेन किंकरेण च सह निष्क्रान्तः।) शुद्धविष्कम्भकः। (ततः प्रविशति पाण्डुः कुष्ठश्च / ) पाण्डुः -(सामर्षम् / ) अग्राह्यमल्पमतिभिः सचिवस्य तस्य ... वैयात्यमूर्जितमहो किमिति ब्रवीमि / यः प्रेषयन्किमपि तादृशवाचिकं द्रा गुन्मस्तकं निजमसूचयदूष्मलत्वम् // 23 // जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः / स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् / किमतः प्रतिविधातव्यम् / कुष्ठः-मम त्वेवं प्रतिभाति / मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः / . शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् // 24 // पाण्डुः-मैवं वादीः / परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह