________________ काव्यमाला। मत्सरःकमपि प्रदर्य दोषं विचारहतकेन सोऽपि च क्रोधः / अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत् // 16 / / कुष्ठः-हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्रवृत्तः। अथ लोभः कथम्। मत्सरः-यादृशः कामः / साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया / .. यादृशी प्रापितोऽवस्थां कामस्त्वमपि तादृशीम् // 17 // अथ दम्भः क्व / मत्सर: उपजप्तोऽपि बहुधा तैरस्माकं स केवलम् / सौहार्दमुपरुन्धानः शस्त्रघातहतोऽजनि // 18 // कुष्ठः-धन्योऽसि दम्भ, धन्योऽसि / यतः सख्युरनृणतां गतोऽसि / अथ कथय किमध्यवसितं मदेन / मत्सरः-मदस्तु निगृह्य कारागारे स्थापितः / कुष्ठः-ततः / मत्सरः-निर्गते च पुण्डरीकनगराद्राजनि नर्मकर्मण्येनमुपयोक्ष्यामह इति / कुष्ठः-मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि / मत्सरः-शृणु तावत् / नहि मम स्वेच्छया ततो निर्गमो जातः / यतो रससिद्ध्यनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करिष्याम इति निगृह्य स्थापितोऽस्मि / / कुष्ठः-तर्हि सखे, तवागमनमिदानीं तत्र रससिद्धि सेनासंनाहं च सूचयति / मत्सरः-एवमेतत् / समनन्तरमेव राज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डुमाविष्कुरु / खामिप्रीतिमुपेहि मन्त्रकलनाकौशल्यमप्य श्लथम् /