________________ 6 अङ्कः] जीवानन्दनम् / त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति. लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च / किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत स्तत्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम् // 1 // अपि च। त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा विधानेकफलानि दत्से / इन्द्रत्वमिन्द्रस्य विधेर्विधित्वं हरेर्हरित्वं च फलं त्वदीयम् // 2 // कर्म-आर्य, अवाङ्मनसगोचरस्तव महिमा / सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या (सविनयम् / ) भवति भवदधीनं मद्विधानं जनानाम् / भगवन्, किमन्यद्रवीमि / परिणमयसि पुंसां दातुमर्थात्मना मां . त्वयि कृतिमति षोढा विक्रियन्ते च भावाः // 3 // किं च / त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम् / ऐकध्यमापन्नमखण्डरूपमाधारमेषो जगतामवैमि // 4 // निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान् / भवत्तनूभृत्त्वयने तथाब्द युगं च मन्वन्तरमप्यवैमि // 5 // काल:-तदिदानी पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुषी कृतार्थयिष्यावः / पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गहीतो राजेति जानामि / आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः। उभयेषामपि युद्धं पश्यावः संलपावश्च // 6 // किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः /