________________ काव्यमाला। स्थातुं सुशक्यमनले पतितुं कृपाण धारासु वा न तु जनं दयितं विमोक्तुम् // 9 // .. तत्क्वायमात्मा विनोदयितव्यः / विदूषकः-भो, तत्थ जेव्व उज्जाणे गच्छीअदु / तत्थ तरङ्गसालब्भन्तरे चित्तगदं पलोअन्तो सुहं पाविहिसि / (क) राजा-सखे, युक्तमुक्तम् / तदुपदिश पन्थानम् / विदूषकः-इदो इदो / (इति परिक्रामति / ) एसा तरङ्गसाला अलंकरोअदु / (ख) - (उभौ तथा कुरुतः / ) / विदषकः-(सर्वतोऽवलोक्य / ) भो, कहिं सा सामलङ्गी अणङ्गदेवदा आलिहिदा / अह वा अहं चम्मचक्खू ण पेक्खामि / (ग) राजा-(निःश्वस्य।) कथमुत्प्रोञ्छितं तदनङ्गशस्त्रम् / अहो निर्दया देवी। सिद्धक्षेत्रमिवाङ्गनाकुलगुरोलावण्यसारोच्चय श्रीसंकेत इव त्रिलोकनयनप्रीतेरिबैको निधिः / धातुश्चन्द्रसहस्त्रसंग्रह इव द्रष्टुं तदेणीदृशो वकं चित्रनिविष्टमप्यसुलभं कोऽयं विरुद्धो विधिः // 10 // (विचिन्त्य / ) विद्वांस्ततो लिखितुमिन्दुमुखी विदग्धः ___कोऽन्यो विना कुसुमचापमनल्पशिल्पः / नूनं तदा तदनुबन्धिभिरिन्द्रजाल ___ मुन्मीलितं किमपि मे पुरतो विकल्पैः // 11 // (इति शोकं नाटयति / ) (क) भोः, तत्रैवोद्याने गम्यताम् / तत्र तरङ्गशालाभ्यन्तरे चित्रगतां प्रलोकयन्सुखं प्राप्स्यसि / (ख) इत इतः / एषा तरङ्गशालालंक्रियताम् / (ग) भोः, कुत्र सा श्यामलाङ्गयनङ्गदेवतालिखिता / अथ वाहं चर्मचक्षुर्न पश्यामि /