________________ 2 अङ्कः) कर्णसुन्दरी। विदूषकः-भो, किं एत्थ सुण्णदेउले / एहि / लीलावणब्भन्तरे परिब्भमामो / कदा वि कथं वि कुसुमाओ उच्चिणन्ती लदाओ सिञ्चन्ती वा सरसीजलम्मि ह्राणविधिं करन्ती वा सा हुविस्सदि / (क) राजा-कुत एवंविधा भाग्यसंपदः / तथापि पश्चात्तापव्यपनयनाय तदपि विधीयताम् / / __ (इति तथा कुरुतः / ) विदूषकः- (अग्रतो विलोक्य / ) पेक्ख केलिकमलिणीसणुम्मि / विच्छोडन्तो णिअमुहगदं चक्कवाआण चक्कं देन्तो णिहारसमसमये सव्वदो पङ्कआणम् / (अप्रतोऽवलोक्य / ) तारं तीरप्फुरिदकिरणो लोअणानन्दवल्ली-- कन्दो चन्दो रचअदि जले मज्जणुम्मज्जणाई // 12 // (न) राजा-(विलोक्य / ) परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः स एवायं यूनामविनयकथोन्मुद्रणगुरुः / (विचिन्त्य / ) * गतः किं वा दैवात बत कलंकोऽस्य नियतं . सुधामुग्धैर्धीतः कमलसरसीवीचिनिचयैः // 13 // (सोत्प्रेक्षम् / ) तस्याः कुरङ्गकदृशो युगपन्मुखेन दोषाकरश्च कमलानि च निर्जितानि / (क) भोः, किमत्र शून्यदेवकुले / एहि / लीलावनाभ्यन्तरे परिभ्रमावः / कदापि कथमपि कुसुमान्युच्चिन्वती लताः सिञ्चन्ती वा सरसीजले स्नान- . विधिं कुर्वती वा सा भविष्यति / (ख) पश्य केलिकमलिनी........ / वियोजयन्निजमुखगतं चक्रवाकाणां चक्रं ___ ददन्निद्रारसमसमये सर्वतः पङ्कजानाम् / तारं तीरस्फुरितकिरणो लोचनानन्दवल्ली कन्दश्चन्द्रो रचयति जले मज्जनोन्मज्जनानि //