________________ 2 अङ्कः] .. कर्णसुन्दरी। राजा-अविदग्धोऽसि / पश्य / दीर्घापाङ्गतरङ्गितेन विगलन्नीरं विलोलेक्षणा __ यत्पश्यन्त्यवतंसनालनलिनच्छायामुषा चक्षुषा / तुल्यं वाधिकमन्यदेव मदनस्यास्त्रं त्रिलोकीजयि व्यापारोऽस्य न यत्र तत्र किमपि प्रेम्णो हि तल्लक्षणम् // 7 // विदूषकः-भो, अण्णं भणामि / जाए कारणादो महन्तेण दुःखेण सअलं जेव्व जामिणि देवी अब्भत्थिदा सा किं त्ति पुणो वि अणुसंधीअदि / जदि तीए कजं ता कि त्ति देवी पीडन्ती अणुणीअदि / अह देवीए कजं ता कित्ति सा अणुसंधीअदि त्ति / (क) राजा-अयि सखे, शृणु। जनिमुपगता विश्वप्रख्यातनाम्नि कुले पुनः ___ प्रणयविशदा देवी मोक्तुं मया न हि पार्यते / कथमवितथश्लाघ्यैरङ्गैरसावपि मुच्यतां रचितकवचः पंक्षे यस्याः स्थितः कुसुमायुधः // 8 // तत्कथमयं विरहदाहो मया गमयितव्यः / विदूषकः-सव्वधा पिअवअस्सो असुहिदो त्ति करुणं उप्पाइअ सत्थिवाअणपुव्वअं अणुणीअ सा समप्पीअदु त्ति देवि पुच्छेमि / (ख) राजा-मूर्ख, . नैवं कथंचन कृतानुनयापि देवी ... मन्येत मन्युकलुषा मयि केवलं स्यात् / __ (क) भोः, अन्यद्भणामि / यस्याः कारणान्महता दुःखेन सकलामेव यामिनी देव्यभ्यर्थिता सा किमिति पुनरप्यनुसंधीयते / यदि तया कार्य तत्किमिति देवी पीड्यमानानुनीयते / अथ देव्या कार्य तत्किमिति सानुसंधीयत इति / (ख) सर्वथा प्रियवयस्योऽसुखित इति करुणामुत्पाद्य स्वस्तिवायनपूर्वकमनुनीय सा समर्म्यतामिति देवीं पृच्छामि /